वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः। तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः॑ ॥६॥
vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ | taṁ tvābhiḥ suṣṭutibhir vājayanta ājiṁ na jagmur girvāho aśvāḥ ||
वि। त्वत्। आपः॑। न। पर्व॑तस्य। पृ॒ष्ठात्। उ॒क्थेभिः॑। इ॒न्द्र॒। अ॒न॒य॒न्त॒। य॒ज्ञैः। तम्। त्वा॒। आ॒भिः। सु॒स्तु॒तिऽभिः॑। वा॒जय॑न्तः। आ॒जिम्। न। ज॒ग्मुः॒। गि॒र्वा॒हः॒। अश्वाः॑ ॥६॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे इन्द्र ! ये त्वद्रक्षिताः पर्वतस्य पृष्ठादापो नोक्थेभिर्यज्ञैर्यं त्वा गिर्वाहोऽश्वा व्यनयन्त तं त्वामाभिस्सुष्टुतिभिर्वाजयन्तः शूरा आजिन्न जग्मुः ॥६॥